|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.213. अध्यायः 213
Mahabharata - Adi Parva - Chapter Topics
कथं नालायनी मत्पुत्री जातेति व्यासं प्रति द्रुपदस्य प्रश्नः॥ 1 ॥
पुनर्नालायनीकथाकथनं॥ 2 ॥
कामोपभोगविरक्तेन मौद्गल्येन कामातृप्तायाः नालादन्याः पञ्चपतित्वशापः॥ 3 ॥ नालायन्या रुद्रमुद्दिश्य तपःकरणम्॥ 4 ॥
नालयन्या पतिं देहीति पञ्चकृत्वः प्रार्थितेन रुद्रेण अन्यजन्मनि पञ्च ते पतयो भविष्यन्तीति वरदानम्॥ 5 ॥ पुनः रुद्रात नि कौत्पवरप्राप्तिः॥ 6 ॥
त्वयि गङ्गाजलस्थायां तत्रागमिष्यन्तमिन्द्रमानयेति नालायनींप्रति रुद्रस्याज्ञापनम्॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text
द्रुपद उवाच। 1-213-0x(1179)(9298)
ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा।
जाता ममाध्वरे कृष्मा सर्ववेदविदां वर॥ 1-213-1(9299)
व्यास उवाच। 1-213-2x(1180)
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः।
यदर्थं चैव संभूता तव गेहे यशस्विनी॥ 1-213-2(9300)
हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम्।
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा॥ 1-213-3(9301)
मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा।
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया॥ 1-213-4(9302)
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा।
ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत॥ 1-213-5(9303)
अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत्।
उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि।
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा॥ 1-213-6(9304)
नालायन्युवाच। 1-213-7x(1181)
प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि।
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात्॥ 1-213-7(9305)
मौद्गल्य उवाच। 1-213-8x(1182)
यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे।
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम॥ 1-213-8(9306)
भविष्यसि नृलोके त्वं राजपुत्री यशस्वि।
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः॥ 1-213-9(9307)
भवितारस्तत्र तव पतयः पञ्च विप्लुताः।
तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि॥ 1-213-10(9308)
वैशम्पायन उवाच। 1-213-11x(1183)
सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी।
भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा॥ 1-213-11(9309)
निराशीर्मारुताहारा निराहारा तथैव च।
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत्॥ 1-213-12(9310)
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम्।
वचं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः॥ 1-213-13(9311)
भविष्यति परं जन्म भविष्यति वराङ्गना।
भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः॥ 1-213-14(9312)
महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः।
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि॥ 1-213-15(9313)
स्त्र्युवाच। 1-213-16x(1184)
एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम्।
एको भवति नैकस्या बहवस्तद्ब्रवीहि मे॥ 1-213-16(9314)
महेश्वर उवाच। 1-213-17x(1185)
पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः।
पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः॥ 1-213-17(9315)
स्त्र्युवाच। 1-213-18x(1186)
धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः।
बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः॥ 1-213-18(9316)
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा।
सहधर्मचरी भर्तुरेका एकस्य चोच्यते॥ 1-213-19(9317)
एको हि भर्ता नारीणां कौमार इति लौकिकः।
आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः॥ 1-213-20(9318)
गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते।
चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत्॥ 1-213-21(9319)
एवं गते धर्मपथे न वृणे बहुपुंस्कताम्।
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात्॥ 1-213-22(9320)
महेश्वर उवाच। 1-213-23x(1187)
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे।
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति॥ 1-213-23(9321)
स्त्र्युवाच। 1-213-24x(1188)
यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः।
कौमारं च भवेत्सर्वैः संगमे संगमे च मे॥ 1-213-24(9322)
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा।
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत्॥ 1-213-25(9323)
रुद्र उवाच। 1-213-26x(1189)
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम्।
भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम्॥ 1-213-26(9324)
अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता।
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि॥ 1-213-27(9325)
गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे।
तमानय ममाभ्याशं सुरराजं शुचिस्मिते॥ 1-213-28(9326)
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम्।
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम्॥ ॥ 1-213-29(9327)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः॥ 213 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-213-23 अनावृताः निरोधरहिताः॥ त्रयोदशाधिकद्विशततमोऽध्यायः॥ 213 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|